हे कालिदास,

डॉ. सौ. माधवी दिपक जोशी, संस्कृतव्याख्याता

यः सः कवियशःप्रार्थी गतोsनुकरणीयताम्।

यं गत्वा न निवर्तन्ते वागर्थध्वननादयः।।

येन सा दूतकाव्यानां परम्परा विनिर्मिता।

यस्मै कालिसरस्वत्योः वरदानमलौकिकम्।।

यस्मात्सा भारती देवी माधुर्येण प्रसाददा।

यस्य हि रचनाः सर्वाः रसभावसमन्विताः।।

यस्मिन्नवनवोन्मेषाः प्रज्ञाश्च सृजनक्षमाः।

कालिदास नमस्तुभ्यं महाकविप्रबोधक।।

डॉ. सौ. माधवी दिपक जोशी
संस्कृतव्याख्याता,
डी. बी. जे. महाविद्यालय,
चिपळूण

Be the first to comment

Leave a Reply

Your email address will not be published.


*