मेघदूते प्रकृतिवर्णनम्

सुदीप संजय जोशी

मेघ एवं दूतः यस्मिन् तत् इति विग्रहः। मेघदूतमपि कालिदासकृतमपूर्वं खण्डकाव्यमेकमस्ति।  मेघदूतम् पूर्वमेघः उत्तरमेघश्र्चेति। अस्मिन् खण्डकाव्ये मेघप्रवाहव्दारेण राष्ट्रस्य समग्रा भौगोलिकी स्थितिः कालिदासेन प्रदर्शिता वर्तते। परन्तु कविः वस्तुविधानं रुचिपूर्णकाल्पनिकदृष्ट्या करोति। यक्षः कश्चित् कुबेरस्य वर्षभोग्येण शापेन अलकापुरीस्थया प्रियया विरहितः रामगिरेः आश्रमेषु निवसति।  तत्र वर्षर्तौ आषाढस्य प्रथमदिवसे नवीन मेघमाकाशे वीक्ष्य दूरस्थितायाः निकटे कुशलसमाचारं प्रापयितुं तमनुरुणध्दि। तस्य मार्गे आगतानां स्थानानां  रमणियतमं वर्णनमपि तन्मुखेन दर्शयति  कविकुलगुरु कालिदासः।  मेघदूते सर्वानि पद्यानि मन्द्राकान्ताछन्दसा विरचितानि वर्तन्ते । अस्मिन् खण्डकाव्ये नायकः यक्षः नायिका तु तत्पत्नी यक्षिणी । मेघस्तु सन्देशवाहकः। अत्र मुख्यो रसः विप्रलम्भश्रृंगारः। रीतिः वैदर्भी। प्रसादगुणगुम्फिता च रचना। पूर्वमेघभागस्तु  विषयवर्णनात्मकः। उत्तरमेघस्तु विरहवर्णनात्मकः।

कुबेरशापेन प्रियाविरहितस्य रामगिरेः आश्रमेषु वसत: यक्षस्य अलकापुर्यां स्थितां स्वप्रियां प्रति मेघद्वारा  कुशलवार्ताप्रेषणमेव  मुख्यो वर्ण्यविषय:। अनेन विषयमाध्यमेन  कालिदास: भारतीयप्रकृतिसुषमां, मेघस्य मार्गमपि दर्शयितुं प्रयतते इति व्यङ्ग्यता विशिष्टरूपेण सन्दृश्यते।

अस्मिन् खण्डकाव्ये कविकुलगुरू कालिदासेन  न केवलं  प्राकृतिचित्रात्मकवर्णनं कृतम्  अपि तु ‘रामगिरि पर्वताविद्यमानाश्रमेषु वर्णनं अपि प्रागल्भमत्या कृतम् इति प्रतीयते। अत्र रामगिरि आश्रमस्य क: प्रसङ्ग: ? इति चेत् मेघदूते प्रथमपद्ये एव वर्णितम्। स्वकर्मणि अनवधानवान्  कोऽपि यक्षः स्वस्वामिनः यक्षेश्वरस्य  कुबेरस्य अभिशापेन स्वनिवासात् अलकापुरीतः नियुक्तः  रामगिरेः आश्रमेषु  एकस्मै वर्षाय निवासं चकार। तदा एव एतेषां आश्रमाणां  जलं  जनकनन्दिन्या: सीताया: वनवासकाले  अवगाहनेन पवित्रमभवत्। अत्र माता सीतास्नानप्रसङ्गात् आश्रमाणां पवित्रता  प्रतीयते। मेघदूते मेघस्य वर्णनमपि सहृदयल्लायकं  वर्तते। महाकवि कालिदासस्य विश्वकवेः कल्पनया एव सम्भवते – कविं  वाल्मिकी रामायणे दूत: यः वानरसेनाप्रमुखः हनुमत: प्रेरणां  स्यात्। तस्मात् वर्षाकालप्रसङ्गे अर्थात् ‘आषाढस्य प्रथमदिवसे ‘ मेघस्य रूपं कथं स्यात् – तस्य विवेचनं

आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं।

विप्रक्रिडापरिणतगजप्रेक्षणीयं ददर्श।।

अस्मिन् पद्यशब्दैः वर्णितम्। स यक्षः तस्मिन्  रामगिरौ  कतिचिद् मासान्  उषित्वा आषाढमासस्य प्रथमदिवसे  आलिङ्गितशिखरं  विप्रक्रिडायां तिर्यक्प्रहारकारिगजसदृशं  रूपं मेघस्य वर्तते। तस्मात् महाकवि कालिदासेन मेघस्य शरीरस्य वर्णनं अत्यन्तं सुक्ष्मतया  कृतम्। ” धूमज्योतिः सलितमरुतां सन्निपातः क्व मेघ:। ” – धूमात्  , प्रकाशात्  , जलात्  , वायोः मेघस्य निर्माणं भवति। प्रसङ्गः यत्- मेघः निर्जीवः। अतः सः सन्देशः कथं प्रापयितुं समर्थः स्यात्? तथापि विरहवशात् एतत् जानन्नपि निर्णेतुमसमर्थ: यक्षः तं मेघं दूतरूपेण प्रेषयितुं  कामयते  इति कालिदासस्य भावः

अस्मिन् खण्डकाव्ये पर्वतमेघयोर्मध्ये यः सम्बन्धः तस्य प्रकटीकरणं प्रतीयते। एवञ्च पर्वतमेघयोर्मध्ये भगवन्तः श्रीरामस्य  भावबन्धनं सन्दृश्यते।

आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं 

वन्द्यै: पुसां रघुपतिपदैरङ्कितं मेखलासु ।

काले काले भवति भवतो  यस्य संयोगमेत्य

स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम्।।

महाकवि कालिदासेन विलक्षणरित्या उक्तं – लोकानां वन्दनीयैः रामचन्द्रचरणैः चिन्हितम् एतं प्रियमित्रम् उन्नतं  रामगिरम् आश्लिष्य तस्य अनुज्ञां गृहाण। समये समये भवतः सम्पर्कं सम्प्राप्य सुखमनुभूयोष्ण बाष्पं त्यजतः यस्य रामगिरेः प्रणयः  प्रादुर्भवति। अर्थात तात्पर्यं यत्  मेघस्य अवगमनेन सुखमनुभवतोऽपि सम्प्रति गमनेनोत्पन्नं बाष्पं तस्य प्रेमाभिव्यक्तिं व्यनक्ति  , अतः तमालिङ्ग्य व्रजतु। 

मेघदूते महाकविकालिदासेन प्रकृतिमानवयोः  व्यवहारसाम्यं प्रदर्शयन्  प्रकृतिं  सजीवां  प्रतिपादयति। तस्मात् महाकविकालिदासेन मेघस्य उड्डयनं कथं स्यात्? –

उक्तं  –

स्थानादस्मात्सरसनिचुलादुत्पतोङ्मुखः खं

दिङ्नागानां पथि  परिहरन् स्थूलहस्तावलेपान्।।

मेघस्य विशालशरीरं विलोक्य मूढाः सिध्दसुन्दर्योऽतिचकिता भविष्यन्ति। तत् आर्द्रस्थलवेतसवेष्टितात् अस्माद् आश्रमात् नभो  मार्गे प्रतिरोधकानां दिग्गजानां  पीवरशुण्डदण्डाक्रमणानि परित्यजन् अलकापुरीगमनार्थम् उत्तराऽभिमुखः सन् आकाशमुत्पत। अर्थात् मुग्धसिध्दाङ्गानानां नेत्राणाम् आनन्दविषयो भूत्वा उत्तरदिशि  अलकापुरीं प्रति गमनाय भवतु  इति।

अत्र राजराजेश्वर देवदेवेश्वर महाकाल महादेवस्य  सम्बन्धः मेघेन सह कृतं वर्तते इति प्रतीयते। एवं उज्जयिन्याः अपि वर्णनम् अतिशयेन प्राकट्येन कृतम् अस्ति।

भर्तुः  कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः

पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य।

धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या

स्तोयक्रिडानिरतयुवतिस्नानतिक्तैर्मरुदि्भः।।

अस्मिन्  पद्ये यदुज्जिन्यां भगवान् शङ्करस्य निवासस्थलस्य वर्णनं विद्यते। श्यामवर्णयुक्तत्वात् भगवत: शङ्करस्य सदृश एव मेघः भविष्यति। तदा शिवकण्ठवर्णसमशोभायुक्तं शिवगणाः उज्जयिन्यां  सादरं द्रक्ष्यन्ति। अत्र महादेवस्य द्वितीयरूपं स्यात् – तद् द्वितीयरूपस्य दर्शनं कर्तुं जनाः सादरं प्रणम्यन्ति इति प्रतीयते। अत्र महादेवः उपमानरूपेण तथा मेघः उपमेयरूपेण सन्दृश्यते।      अस्मिन् पद्ये  उपमानउपमेयभावसम्बन्धः प्रतीयते। यदि व्याकरणदृष्ट्या चेत् तर्हि विशेषणविशेष्यभावसम्बन्धः स्यात्।

गत्वा चोर्ध्वं दशमुखभूजोच्छ्वासितप्रस्थसन्धेः

कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः।

श्रृङ्गोच्छ्रायै कुमुदविशदैर्यो वितत्य स्थितः  खं

राशीभूतः प्रतिदिनमिव त्रम्बकस्याट्टाहासः।।

अस्मिन् पद्ये यक्षः मेघं  कथयति  कैलाशशिखरं गत्वा तत्रत्यां  शोभां  सादरं पश्यतु इति प्रसङ्गः।

क्रौञ्चरन्ध्रपर्वतमतिक्रम्य भवान्  कैलासपर्वतस्यातिथिर्भविष्यति। एवं क्रौञ्चरन्ध्रनिर्गमनान्तरम् उर्ध्वं गत्वा रावणबाहुविश्लेषितरसानुसन्धेः देवललनामुकुरभूतस्य कैलाशपर्वतस्य  आगन्तुकस्त्वं भवेः इति। सः कैलाशः  कैरवनिर्मलाभिः शिखरोन्नतिभिः  आकाशं व्याप्य दिने  दिने पूञ्जीभूतः त्रिलोचनस्यातिहासः इव विद्यमानोऽस्ति। महाकविकालिदासः महाकाल शिवस्य  भक्तः आसीत्  । महाकविकालिदासेन शिवं नतिपूर्वकं नत्वा  यक्षमेघयोर्मध्ये शिवं प्रति सुसंवादः प्रतीयते। यक्षः मेघं प्रति भणति यत् तत्र गमने  दर्शने च शिवस्य गुणान्  त्वमाप्स्यसि। तत्र कस्मिश्चित् पाषाणे  प्रकटं योगिभिर्नित्यमम्  कृतपूजं शिवस्य चरणन्यासं भक्तिपूर्वकं प्रदक्षिणां करोतु । दर्शनात् निष्कल्मषाः सन्तो  भक्तिमन्तो जनाः शरीरत्यागानन्तरं परमं  सत्य प्रमथपदं लभन्ते। तत्सदृशं भवान् तत्र गत्वा भगवतो  भूतभावनस्य शिवस्य गुणयुक्तः सन् परमपदं लभेयाः। अत्र शिवस्योदात्तगुणानां वर्णनं प्रतीयते। एवं क्रौञ्चरन्ध्रपर्वतमतिक्रम्य भवान्  कैलाशपर्वतं यास्यति  स च भगवतो शङ्करस्य अट्टाहासो इति भावः।

तत्पश्चात् कैलाशपर्वतवत् आम्रकुटपर्वतस्य  वर्णनं मानवीयदृष्ट्या  विलक्षण वर्तते। तत्पद्यं विद्यते –

छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै –

स्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे।

नूनं  यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां

मध्ये श्यामः स्तन इव भूवः शेषविस्तारपाण्डुः।।

अयं आम्रकुटपर्वतः पक्वैः  आम्रफलैः आम्रवृक्षैः च आच्छादितोऽस्ति। वृक्षाणां  पिताम्रैः स पर्वतः परितो वेष्टितो विद्यते। यदा रमणीयवेणीरूपतां  प्राप्तः सन् तत् शिखरम्  आरूढो भविष्यति। मेघः तदा सर्वत्र  पीतवर्णत्वात् मध्ये च मेघावगमने सति श्यामवर्णयुक्तत्वात् तस्य आम्रकुटपर्वतस्य रूपं पृथिवीनायिकायाः स्तन इव दृश्यते  इति अस्य शोभायमानवर्णनमत्र विलासते। अत्रापि उपमानउपमेयभावसम्बन्धः प्रतीयते।

कालिदासस्य काव्येषु इतरकविकाव्यापेक्षया निरूपमं  विद्यते। अस्मिन् खण्डकाव्ये गिरि- सागर- नदी- सरोवर- वन- सुर्य- चन्द्र – रात्रि – दिवस- वनस्पति – लता- पशु  पक्षाप्रभृतीनां प्रकृतिगतानां वस्तूनां हृदयावर्जकं चित्रं वर्णितं  विद्यते। महाकविकालिदासवर्णितायाः प्रकृतेः  इदं वैशिष्ट्यं  यत् क्वापि प्रकृतिगतं  वस्तु देवत्वं, मानवीयभावं च अनुसन्दधाति ।

सुदीप संजय जोशी

शास्त्री व्दितीय वर्ष(व्याकरण विभाग)

केन्द्रीयसंस्कृतविश्र्वविद्यालय,

क. जे सोमैया संस्कृत विद्यापीठ

विद्याविहार मुंबई.

संपर्क 7385422815

sudipsj2001@gmail.com

3 Comments

  1. अप्रतिम सुदिपमहोदय । कासते भवतां लेखनी 👌👌 एवमेव प्रगती भवेत।

Leave a Reply

Your email address will not be published.


*