कविकुलगुरु: कालिदास:

सौ. मेघा देशपांडे  

पुरा कवीनां गणना प्रसंगे कनिष्ठिकाधिष्ठित कालिदास: ‌|

अद्यापि तत्तुल्य कवेरभावादनामिका सार्थवती बभूव||

यशस्विनां कवीनां कुलगुरु: महाकवि: कालिदास: कविशिरोमणि: इति पदेन अद्यापि विभूषित:| संस्कृतसाहित्ये सर्वेषु कविषु रसिकप्रिय: कवि कालिदास:| कालिदेव्या: प्रसादेन एष: काव्यप्रतिभां लब्धवान् इति किंवदन्ति प्रचलति| तस्मात् कालिदास: इति तस्य नाम जातम् |  एष: न केवलं भारतीयै: अपि तु विदेशीयै: अपि स्मर्यते | अयं कविश्रेष्ठं कदा, कुत्र व अजायत इति निश्‍चयेन वक्तुं न शक्नुम: |

     अस्ति उज्जयिन्यां विक्रमो नाम भूपति: | तस्य सभायाम् कालिदासो नाम कवि: बभूव | कालिदास: कविषु श्रेष्ठतम:| उपमा कालिदासस्य इति प्रख्याता लोकोक्ति: लोकेषु | कालिदासेन द्वे महाकाव्ये, द्वे खण्डकाव्ये त्रीणि च रुचिराणि नाटकानि इति सप्तग्रंथा: लि‍खिता: | रघुवंशम्, कुमारसंभवम्, मेघदूतम्, ऋतुसंहारम्, मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुंतलम् इति ते सप्त ग्रंथा: |

     कालिदास: स्वपत्न्या: ‘अस्ति कश्चिद् वाग्विशेष:’ इति वाक्यस्य प्रत्येकं पदम् अधिकृत्य त्रीणि काव्यानि – अस्ति पदेन ‘अस्त्युत्तरस्यां दिशी देवतात्मा’ इति कुमारसम्भवं महाकाव्यम् कश्चिद – ‘पदेन’  ‘कश्चित्कान्ता’ – विरहगुरणा’ इति मेघदूतं खण्डकाव्यम् वग्विशेषपदस्य वाग् भागं गृहित्वा ‘वागर्थाविव संपृक्तौ……..’

इति रघुवंश महाकाव्यं च आरब्धवान् |

     कालिदासे अद्भुता कल्पनाशक्ति: सर्वतोमुखी प्रतिभा, उत्कृष्टं नाटकनिर्माणकौशलम् आसीत् | विद्वांस: कालिदासम् भारतस्य शेक्सपियरं कथयन्ति |

     अभिज्ञानशाकुन्तलं नाटकं तु संस्कृत साहित्ये शिरोमणिपदम् अलभत | अभिज्ञान शाकुन्तलं नाटकं तु सम्पूर्ण संस्कृतसाहित्ये सर्वोत्तमा रचना स्वीकृता अस्ति |

     काव्येषु नाटकम् रम्यं तत्र रम्या शकुंतलाइति पंडिता: आमनन्ति | गटे नाम जर्मनपंडित: शाकुंतलम् पठित्वा आनंदेन अनृत्यत् | कालिदासस्य साहित्ये भारतीय संस्कृत्या: दर्शनं भवति | तस्य उपमाचातुर्यम् रसिकानाम् चेतो हरति |

     रघुवंशमहाकाव्यस्य निम्नांकितस्य श्लोकस्य विच्छित्तिविशेषमेवावलोक्य समीक्षका: कालिदासम् दीपशिखाकालिदास्य विरुदा विभूषितवन्त: | स च श्लोको वर्त्तते –

सञ्चारिणी दीपशिखेव रात्रौ चं यं व्यतीयाय पतिवरा सा | ‘

नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपाल: ||

कालिदासस्योपमानां क्षेत्रमतीव विस्तृतम वर्त्तते| तस्य काव्येषु-वैदिक्य:, धर्मशास्त्रीया:, दर्शनशास्त्रया:, समाजिक्य:, प्रकृतिविषयिण्य:, अतिप्राकृतविषयिण्य:, नदी पर्वत निर्झर पादप विषयीण्यश्चोपमा: समुपलभ्यन्ते | कालिदासस्य काव्येषु हत्पक्षस्य प्राधान्यमस्ति | कवि: मानवचरित्रस्य परिवर्तनशीलवृत्ती: अवगन्तुमभिव्यञ्जयितुञ्च पूर्णत: समर्थोऽस्ति | चरित्रचित्रणेऽपि कवे: कुशलता स्पृहणीयास्ति | अस्य सर्वाणि पात्राणि भारतीयताया: भव्यमूर्त्तय: | एतेषु काव्येषु भारतीयसमाजस्य सत्यरूपं नाटकेषु – चाभिनेयता लभ्यते | कालिदास: श्रृंगारस्य कविरस्ति | एतस्य कवे: श्रृंगार: उदात्तमेऽकलुषितश्च वर्तते | तपोरताया: उभाया: यादृशमनिन्द्यसौन्दर्यस्य मोहकं वर्णनमनेन कविना कृतम् तत्तु विश्वसाहित्ये दुर्लभमस्ति |

     कालिदासशब्दलाघवेऽपि विशिष्यते | स्वल्शब्दैविपुलार्थमव्यज्जयितुं क्षमोऽसौ अर्थगौरवे स्ववैशिष्टयं सूचयति | ऋषिणागिरसा विहिताया पार्वतीपरिणयचर्चाया: प्रसंगे तत्रोपस्थिताया: पार्वत्या दशावर्णने कविना भारतीय कन्याया: आदर्श रूपमभिव्यक्तमस्ति शब्देष्वल्पष्वेव-

एवं वादिनी देवर्षो पार्श्वे पितुरधोमुखी |

लिला कमल पत्राणि गणयामास पार्वती ||

     पार्वत्या: सहृजलज्जाया: अन्तर्गत प्रेम्ण: आनन्दातिरेकस्य गोपनचेष्टायाश्चै तेषां सर्वेषामेव भावानां मोहिकाभिव्यक्तिर्विदिता वर्तते पद्देऽस्मिन्नेकस्मिन् | कालिदासस्य काव्यानाम् भावपक्षोऽपि समृध्दो वर्तते | महाकविनानेन क्विचित् अपि क्लिष्टा कृत्रिमा वा भाषा न प्रयुक्तास्ति |

     कालिदासेन स्वकाव्येषु माधुर्यप्रसादगुणयो: वैदर्भीपाग्चालीरीत्योश्‍च प्रयोगो विदितोऽस्ति | कालिदासस्य प्रियं माधुर्यगुणं रुचिरा तु वैदर्भी रितिरेवास्ति |

प्रसिध्दैषोक्ति: –

वैदर्भीरीतिसन्दर्भे कालिदासो विशिष्यते |’

कालिदासेनालंकाराणमपि रमणीय: प्रयोगो विहितोऽस्ति | अस्य सालंकृता वाणी स्फुटचन्द्रतारिका विभावर्ये व मनोज्ञा वर्तते | अलकाराणां सहजा:  प्रयोगा: सन्ति | उपमा , अनुप्रासोत्प्रेक्षा-दृष्टान्त, अर्थान्तरन्यादि-नाम् अलंकारैव कविनैषा स्व कविताकामिनी सम्यगलंकृतास्ति | कवेस्तु वाक्यानि सूक्तिभूतानि सहृदयांना कष्ठाधिष्ठितानि विराजन्ते | एवमस्य कवे: काव्यं देवभारत्या: श्रृंगारमेव | अस्य कवे: माधुर्यस्य मधुरो निवेश:, अर्थसौष्ठवं, सर्वे गुणा: संहता समृध्दाश्‍च वर्तन्ते |

     गोवर्धनाचार्यस्य शब्देशु कालिदासस्य काव्य मम्मटाचार्येण निर्दिदष्टस्य काव्य प्रयोजनस्य – ‘कान्तासम्मिततयोपदेशयुजे

साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये |

शिक्षासमयेऽपि मुदे रतिलिला कालिदासोक्ति: ||

     सत्यम् असौ कालिदास: कविताकामिन्या: विलास एवास्ति | महाकवि: कालिदास: न केवल भारतस्य प्रत्युत विश्वस्य श्रेष्ठ: कवि: अस्ति | अयं संस्कृत साहित्ये लोकोत्तर: कवि: इति न कोऽपि संदेह: |

सौ. मेघा देशपांडे  

( संस्कृत M. A.) 

Mob- ९८१९४२५९७९, ९३७२२२२८९९

meghadeshpande29@gmail.com

Be the first to comment

Leave a Reply

Your email address will not be published.


*