श्वेता जोशी
महाकविकालिदासरचितम् |
विख्यातदूतकाव्यं मेघदूतम् ||
यक्षकथैका कथिताऽऽस्मिन् |
कुबेरोऽवसदलकापुर्यां यस्मिन् ||
यक्षस्य किञ्चित्प्रमादात् |
क्रोधेन तं कुबेरोऽशपत् ||
निष्कासितं तञ्चालकापुर्याः |
रामगिरिपर्वते सोऽवसत्ततः ||
आसीत् वर्षाऋतुसमयः |
स्वप्रियामस्मरत् यक्षः ||
अतो प्रेषितस्वसन्देशस्तेन |
स्वकामिन्यै मेघमित्रमाध्यमेन ||
अस्तुत्तरमेघखण्डे प्रसिद्धम् |
विरहाकुलयक्षप्रेषितसन्देशवर्णनम् ||
तथा पूर्वमेघखण्डे मेघप्रवासवर्णनम् |
रामगिरितोऽलकापुरीपर्यन्तम् ||
श्वेता जोशी
नवीन पनवेल.
विज्ञान शाखेची पदवीधर. महर्षी व्यास विद्या प्रतिष्ठानचा अध्यापन वर्ग पूर्ण. संस्कृत शिक्षिका. सध्या एम्. ए. संस्कृत करीत आहे.संक्षिप्त श्री गुरूचरित्र सार- मराठीतून लिहून ते पुस्तकरूपाने प्रसिद्ध झाले आहे. सध्या संस्कृतमधून श्री, गुरूचरित्र लेखनाचे काम सुरु आहे.
Be the first to comment