कालिदासस्य गर्वहरणम् |

 श्वेता जोशी 

ज्ञानप्राप्त्यनन्तरं कालिदासेन ज्ञातं यत् सोऽतीव महान् ज्ञानी अभवत् |

एकदा प्रवासे सः पिपासार्तोऽभवत् | तेन दृष्टं समीप एका वृद्धा स्त्री कूप एव जलमपूरयत् |

कालिदासोऽवदत् ,” मातः! मह्यं जलं दास्यसि तर्हि त्वं बहु पुण्यं प्राप्स्यसि |”

वृद्धा स्त्री प्रत्युत्तरत् ,” वत्स!  अहं त्वां न जानामि | कृपया स्वपरिचयं देहि | ततो एव अहं तुभ्यं जलं दास्यामि |”

तदा कालिदासेन स्वपरिचयं दातुमारम्भं कृतम् |

सोऽवदत् ,” अहं पथिकोऽस्मि |” वृद्धा स्त्री अवदत् ,” पथिकौ तु केवलं द्वावेव स्तः – एकः चन्द्रः अपरः च सूर्यः ; यौ अहर्निशं चलितौ एव स्तः |”

कालिदासोऽवदत्, ” अहमतिथिः अस्मि| किं जलं प्राप्स्यामि?” वृद्धा अवदत् ,” अरे! अतिथी तु केवलं द्वे स्तः – एकं धनम् अपरं च यौवनं; येऽपक्रमतः | सत्यं वद, कोऽसि त्वम्?”

कालिदासोऽवदत्, “अहं सहनशीलोऽस्मि | अधुना तु जलं प्राप्स्यामि?” वृद्धा स्त्री अवदत्, “अरे! सहनशीलौ तु केवलं द्वौ स्तः – एका धरा अपरः च वृक्षः | धरा पुण्यवतां पापीनां जनानां भारं वहति तथा वृक्षः पाषाणखण्डेन मारयित्वापि मधुरं फलमेव यच्छति |”

कालिदासरिदानीं हताशोऽभवत् | 

सोऽवदत्, ” अहं स्तब्धोऽस्मि |” वृद्धा स्त्री अवदत्, ” न , त्वं स्तब्धः कथं भवसि? स्तब्धौ तु केवलं द्वौ स्तः – एकः नखः अपराः च केशाः; यौ कतिपयपि कर्ततः तर्हि पुनः वर्धेत एव |”

कालिदासोऽधुनाग्रस्तोऽभवत् अवदत् च,” अहं मूर्खोऽस्मि |” वृद्धा अवदत्,” मूर्खौ तु केवलं द्वौ स्तः – एकः राजा यस्य योग्यता नास्ति तर्हि सः सर्वेषु राज्यं करोति तथा अपरो सभापण्डितो यः राजानं विनोदयितुमयोग्यमपि सत्य-सिद्धं कर्तुं प्रयतते |”

कालिदासोऽधुना किमपि वक्तुं नैच्छत् | सः तस्याः वृद्धायाः चरणयोः स्वमस्तकं स्थित्वा जलार्थं प्रार्थयत |

ततो वृद्धा स्त्री अवदत्, ” उत्तिष्ठ वत्स!” ध्वनिमिमं श्रुत्वा कालिदासेन उपरि दृष्टं तदा तस्याः वृद्धायाः स्थाने साक्षात्सरस्वतीदेव्यतिष्ठत् | कालिदासो नतमस्तकोऽभवत् |

सरस्वतीदेवी कालिदासमवदत्,” शिक्षणेन ज्ञानं लभ्यते, नाहङ्कारः | शिक्षणबलेन प्राप्तसम्मानप्रतिष्ठ एव त्वं सर्वस्वमवागच्छः | तेन त्वमहङ्कारी अभवः | तदा तव नयनोद्घाटनमावश्यकमभवत् |”

ततो कालिदासेन स्वप्रमादः ज्ञातः | तेन जलं पीत्वा अग्रिमप्रवासार्थं प्रस्थितम् |

महाकवेः कालिदासस्य अस्याः लघुदन्तकथामाध्यमेन वयं जानीमः यत् स्वविद्वत्तायां कदापि गर्वः न कुर्यात् |

 श्वेता जोशी 

  नवपनवेलनगरम्  |

Be the first to comment

Leave a Reply

Your email address will not be published.


*